SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दु रीक्षाया इव, मशक्यानुष्ठानं वा ज्वरहरतक्षकचूहारत्नालङ्कारोपदेशवत् , अनभिमतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत् , अंतो वा प्रकरणारलघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत । एतासु चानर्थसम्भावनास्वेकस्याम प्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिवर्थसम्भावनाऽनर्थसम्भावना विरुद्धोत्पद्यते । तया तु प्रेक्षावन्तः प्रवर्तन्ते । इति प्रेक्षावतां प्रकृत्यङ्गमर्थसम्भावनां कर्तुं सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।। __ अविसंवादकं ज्ञानं सम्परज्ञानम् । लोके च पूर्वमुपदार्शतमर्थ प्रापयन्सम्वादक उच्यते तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थ प्रापयत्संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम् । नान्यत् । तथा हि-न ज्ञानं जनयदर्थ प्रापयति । अपि त्वर्थे पुरुषं प्रवर्तयत्प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुष हटात्मवर्तयितुं शक्रोति विज्ञानम् । अत एव चौर्थाधिमतिरेव प्रमाणफलम् । अधिगते" चार्थे प्रवर्तितः पुरुषः प्रापितश्चार्थः । तथा च ससाधिगमात्समाप्तः प्रमा. १ ख. "ज्वरहतक्षक." २ ख, पुस्तकस्य "भावाप्रकरणात्" इति पाठान्तरमशुद्ध प्रतीयते ।। ___३ ख. पुस्तके संख्यावाचीशब्दः ५” अपि दृश्यतेऽत्र । चतुर्णा पूर्वाणामप्यने संख्या हश्यन्ते । । ४ ख. पुस्तके "त्तक्तेषु" पाठान्तरमुपलभ्यते । यश्चाशुद्धत्वात् "उक्तेषु" इत्यस्य स्थाने प्रयुक्तमिववालोक्यते । । ५“तु" इति पदं ख. पुस्तके न विद्यते। ६ स्व. "अभिसंवादसंज्ञानं" इति पाठान्तरमशुद्धं प्रतीयते । . ७न खुलु पूर्वमुपदर्शितेऽर्थे प्रवर्तकत्वमपि त्वपूर्वमुपदर्शितेऽर्थे प्रवर्तकत्वं संवादकत्वम् । ८ "स्वयं' इति पदं "क" पुस्तके न विद्यते । . ९उत्पत्तिक्षण एव। . १० ख.ज्ञानम् । , ११ "च" इति पदं स. पुस्तके नैवोपलभ्यते। .. १२.शाते.
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy