________________
प्रथमपरिच्छेदः प्रकरणं किमर्थ कृतं श्रीहभिश्च किमर्थ श्रूयत इति संशयव्युत्पादनं प्रयोजनमाभिधीयते । सम्यग्ज्ञानं व्युत्पाद्यमानानामात्मानं व्युत्पादक कर्तु प्रकरणमिदं कृतं; शिष्यैश्वाचार्यप्रमुक्तामात्मनो व्युत्पत्तिमिच्छद्भिः प्रकरणमिदं श्रूयत इति प्रकरणकरणश्रवयोः प्रयोजनव्युत्पादनम् । सम्बन्धप्रदर्शनपदं तु न विद्यते । साम
ादेव तु स प्रतिपत्तव्यः । प्रेक्षावता हि सम्यग्ज्ञानव्युत्पाद. नाय प्रकरणमिदमारब्धवतायमेवोपायो नान्य इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
न च प्रकरणश्रवणात्प्रागुक्तान्यप्यभिधेयार्दानि प्रमाणाभावात्मेक्षावद्भिर्न गृह्यन्ते तत्किमेतैरारम्भप्रदेश उक्तैः । सत्यम् । अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते उक्तेषु त्वप्रमाणकेष्वप्यभिधेयादिषु संशय उत्पद्यते संशयाच प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गम् प्रेक्षावताम् । अनर्थसंशयो निवृत्यङ्गम् । अत एव शास्त्रकारेणैव पूर्वसम्बन्धादीनि युज्यन्ते वक्तुम् । व्याख्यातृणां हि वचनं क्रीडाद्यर्थमन्यथापि सम्भाव्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयायभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपनृभिर्निष्प्रयोजनमाभिधेयं संभाव्यतास्य प्रकरणस्य काकदन्तप१प्रयोजनस्य लक्षणामिदम्। २ बोध्यमानान् शिष्यान् प्रति । ख. व्युत्पाद्यमानानाम् । ३ विशेषेणोत्पादयत्यर्थमिति व्युत्पादकः बोधक इति यावत् । दमि ति पदं ख पुस्तके न विद्यते । ५ ज्ञातव्यः । ६ ननुपदेन.
ते सर्वत्र। ७“अपि" इति पदं "ख" पुस्तके न विद्यते। ८ प्रदशः" इत्यशुद्धः पाठो विद्यते मुद्रितपुस्तके। ९ सत्यमित्यर्द्धस्वीकारे। १० "ख" पुस्तके "अपि" इत्याधिको पाठो विद्यते ।
११ ख. "आख्यातणां टीकाकाराणाम् ।" १२ क. “कीडार्थ" १३यथार्थप्रयोजनाभावात १४ सम्बन्धादिषु । १५तेषु सम्बन्धादिषु ।