SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ न्यायपिन्दुः . नाभावान तत्परीक्षारम्भणीया प्रेक्षावता । तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयताभिधययोजमनेनोच्यते । यस्मात्सम्यरज्ञानपूर्विका सर्वपुरुषार्थसिद्धिस्तस्मातत्यविपत्यर्थमिदमारभ्यत इत्ययमत्र वाक्यार्थः । ____ अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थासद्धिहेतुत्वं प्रयोजनमुक्तम् । अस्मिंश्चार्थ उच्यमाने सम्वन्धप्रयोजनाभिधेयान्युक्तानि भवन्ति । तथा हि-पुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनेति ब्रुवता सम्यग्ज्ञानमस्य शब्दसंदर्भस्याभिधेयं, तद्व्युत्पादनं प्रयोजनं, प्रकरणं चेदमुपायो व्युत्पादनस्येत्युक्तं भवति । तस्मादभिधेयभागप्रयोजनाभिधा. नसामर्थ्यात्सम्बन्धादीन्युक्तानि भवन्ति । न विदमेकं वाक्यं सम्बन्धमाभिधेयं प्रयोजनं च वक्तुं साक्षात्समर्थम् । एकं तु वदअयं सामाद्दशर्यति । तव तदित्यभिधेयपदम् । व्युत्पाद्यत इति प्रयोजनमिदम् । प्रयोजनं चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते श्रोतुश्च श्रवणव्यापारस्य । तथा हि-सर्वे प्रे: क्षावन्तः प्रवृत्तिप्रयोजनमन्धिष्य प्रवर्तन्ते । तताऽऽचार्येण १ "तत्प्रतिपत्तये” इति पाठान्तरम् "ख" पुस्तके। २ यतः-सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादी तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥१॥ यावत् प्रयोजनेनास्य सम्बम्धो नाभिधीयते । असम्बद्धप्रलापित्वाद्भवेत्तावदसङ्गतिः ॥२॥ तस्मात् व्याख्याङ्गामिच्छाद्भिः सहेतुः सप्रयोजनः । शास्त्रावतारस. म्बन्धो वाच्यो नान्योऽस्ति निष्फलः ॥३॥ ३ "उपायो व्युत्पादनस्य" इत्यस्य स्थाने "उपयोग्युत्पादनस्य" इति पठान्तरम् "ख" पुस्तके । ४ "वाच्यं" इति पाठान्तरम् "ख" पुस्तके। . ५ "सामर्थ-एकं तु वदत्" इति पाठान्तरं "ख" पुस्तके । "क" . पुस्तके नैतान्यक्षराणि जीर्णतयाऽवलोकितुमहाणि । धन प्रयोजनपदं। सम्यक्प्रकारेणानुसन्धाय । " इति पर्व"क" पुस्तके म विषते ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy