________________
प्रथमपरिच्छेदः
सम्यग्ज्ञानपूर्विकेत्यादिनास्य प्रकरणस्याभिधयप्रयोजनमुच्यतेसम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिडिरिति तद्व्युत्पाद्यते।
द्विविधं हि प्रकरणशरीरं शब्दोऽर्थश्चेति । तत्र शब्दस्य स्वाभिधेयमतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन निरूप्यते । अभिषयं तु यदि निष्प्रयोजनं स्यात्तदा तत्प्रतिपत्तये शब्दसन्दर्भोऽपि नारम्भणीयः स्यात् । यथा काकदन्तप्रयोजरागद्वेषलोभमोहादिसंसारसम्बन्धिभावानामरातिश्शत्रुस्तस्य । एतेम तस्य वीतरागित्वं घोतितम् । एतादृशः सुगतस्य बुद्धस्य वाचः जयन्ति । कथम्भूता वाचः इत्यत आह -मनः इत्यादि । मनसो य. समस्तस्य तानवं तनोः भावस्त कार्यमादधानाः सम्पादयन्त्यः । एतेन बुद्धस्य वाचि ज्ञानप्रदत्वं प्रकटीकृतम्।
सौगताः "बुद्ध परमेश्वस्यावतार" इति नाभिमन्यन्ते । किन्तु तेषां मते सर्वसंसारिजीवानामिव बुद्धोऽप्यस्मिन्नेव संसारऽनादिकाला. दारभ्य संसरति स्म । पश्चात्काललब्धिवशात्-शुभकर्म करवा काश्चिच्छभगतीः प्राप्तवान् । क्रमेण च स शुद्धोदनगृहे सिद्धार्थों बभूव तत्र कानिचिदिनानि यौवनसुखमनुभूय तेष्वसन्तुष्टः सन् यौवनावस्थायामेय सकलत्रपुत्रादिगृहं परित्यज्य सुदुष्करं तपश्च. कार । क्रमेण च संसारकारणीभूतरागादिभावान् त्यत्का वुद्धो बभू. व । तदनन्तरं स सर्वसंसारजीवान् दुःखनिवृत्युपायं बोधयित्वा निर्वाणं प्राप्तवान् । अयमेव भावो टीकाकारेण श्लोकेऽस्मिन् प्र. दर्शितः। १ "सम्यग्शनपूर्विका सर्वेत्यादिना" इति पाठान्तरम् "क" पुस्तके । २ "चेति" इति पदं "ख" पुस्तके न विद्यते। ३ "स्वाभिधेय०" इत्यस्य स्थाने "अभिधेयः” इति पाठो वि. चते 'ख' पुस्तके। ४ सर्वेषां शब्दानां स्वाभिधेयप्रतिपादनपरत्वात। 'न' इति पदं "क". पुस्तके न विद्यते । ५ "अभिधेये तु निःप्रयोजने तत्प्रतिपत्तये" इति पाठान्तरं "ख" पुस्तके।