SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नमः सर्वज्ञाय न्यायबिन्दुः प्रथमपरिच्छेदः --**जयन्ति जातिव्यसनप्रबन्ध प्रसूतिहेतोर्जगतो विजेतुः। रागाधरातेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ॥ १ तत्र विदुषामग्रणी श्रीधर्मोत्तराचार्यः न्यायविन्दुं व्याचिल्यासः प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थ शिष्टाचारपरिपालनार्थ वा स्वमतं स्थापयन् भगवतो बुद्धस्य गुणसंस्तवनं करोति । "जयन्ति" इत्यादिना । सुगतस्य भगवतो बुद्धस्य वाचः वाण्यः जयन्ति । कथम्भः तस्य बुद्धस्यत्यत आह-जातीनाम् प्राणिसामान्यानां । “जातिर्जात. च सामान्यम्" इत्यमरः । व्यसनस्य विपदः “व्यसनं विपदि भ्रंशे दोष कामजकोपजे" इत्यमरः । प्रवन्धस्य सन्दर्भस्य परम्परायाः इत्यर्थः। या प्रसूतिः श्च्योतः क्षरणं नाश इत्यर्थः । "प्रसूतिः प्रसवेश्च्योते" इत्यमरः। तस्या हेतु: कारणभूतस्तस्य । एतेन संसारस्य दुःखमयत्वं बुद्धस्य तद्विनाशे कारणत्वञ्च प्रदर्शितम् । जगतः संसारस्य विजेतुः जयकर्तुस्तस्मिननासक्तस्येत्यर्थः । एतेन बुदस्य संघसंसा. सम्बन्धिविकारेषु जयित्वं जगतस्तरणत्वच चितम् । रागादीमाम
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy