________________
न्यायविन्दुः यस्माद्विषयाज्ज्ञांनसुदेति तद्विषयसशं तद्भवति । यथा नीला दुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यर्पदिश्यते । .- न च बानादब्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं सा. धनं चोपपद्यते । तत्कथं सारूप्यप्रमाणमित्याह--
. तदशादर्थप्रतीतिसिद्धेरिति ।
तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिरवरोधस्तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशासिध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं यतस्तस्मात्रीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशातज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम् । नीलसदृशं त्वनुभूयमानं नीलस्यं संवेदनमवस्थाप्यते । न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः येनैकस्मिन्वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन । तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचित्प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यम् । तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम् । व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य
१शानं, ख. विज्ञानम् ।
२ विज्ञानमर्थजनितमर्थाकारमर्थस्य च ग्राहकमिति यदुक्तं पुरस्ताइस्माभिः । ३ 'सारूप्यम्' इति पदं ख० पुस्तक एवोपलभ्यते ।
४ कथ्यते। ५ तत्सिद्धः, ख० ततः सिद्धेः। ६ विज्ञानम् , ख० शानम् ।
७ यत्र त्वेकस्मिन्नेष वस्तुनि जन्यजनकभावनिबन्धनः साध्यसाधनभावो भवति तत्र विरोध आपद्यते। अत्र तु व्यवस्थाप्यव्यवस्था पकभावोऽस्ति । अत एवात्र न कश्चिद्विरोकः।