SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः तच्चानुमानस्य ग्राह्यं दर्शयितुमाह-सोऽनुमानस्य विषयः । सोऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः । सामान्यलक्षणम् । अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्त्तनीयः स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एवानुमानविषय उक्तः । विषयावप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह-तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् । १५ यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफलमित्याह । अर्थस्य प्रतीतिरवर्गमः । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम् । तस्य भावः । तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणं । प्रापणशक्तिश्व न केवलादर्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनोप्यङ्कुरादेरप्रापकत्वात् । तस्मादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्त्तव्यः प्रापकव्यापारः । येन कृतेनार्थः प्रापितो भवति । स एव च प्रमाणफलम् | यदनुष्ठानात्मापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृतिविषयप्रदर्शनमेव मापकस्य प्रापकव्यापारो नाम | तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थदर्शनरूपम् । अतस्तदेव प्रमाणफलम् । यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याह 1 अर्थसारूप्यमस्य प्रमाणं । अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत्प्रमाणमिह । १ पुनः कथनीयः स्यात् । ३ अवगमो ज्ञानम् । २ अर्थात्, ख० प्राथादर्थात् । ३ अर्थदर्शन०, ख० अर्थप्रदर्शन० । ४ सादृश्यम्, ख० यत्सादृश्यम् । ४
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy