________________
न्यायविन्दुः संदिग्धसाध्यव्यतिरेकमुदाहर्तुमाह
यथाऽसर्वज्ञाः कपिलादयोऽनाप्ता वा । अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । ___ यथेति । असर्वज्ञा इत्येकं साध्यम् । अनाप्ता अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मी। अविद्यमानसर्वज्ञतेत्या. दिहेतु । सर्वज्ञता चाप्तता च तयोलिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः। अविद्यमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिस्तत्तथोक्तं शासनं । तादृशं शा. सनं येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मात्प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि कपिला. दयः सर्वज्ञा आप्ता वास्युस्तदा ज्योतिर्ज्ञानादिक कस्मान्नोपदिष्ट. वन्तः । नचोपदिष्टवन्तः । तस्मान्न सर्वज्ञा आप्ता वा । अत्र प्रमाणे वैधोदाहरणम् - . अत्र वैधयोदाहरणं यः सर्वज्ञ आप्तो वा सज्यो
तिर्ज्ञानादिकमुपदिष्टवान् । यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततालिङ्ग. भूतमुपदिष्टवान् ।
तद्यथा । ऋषभर्वर्धमानादिरिति । यथा ऋषभो वर्धमानश्च तावादौ यस्य स ऋषभवर्धमानादिदिगम्बराणां शास्ता सर्वज्ञ आप्तश्चेति ।
१ 'यथाऽसर्वशाः' इति पाठोऽस्माकं सम्मतौ । मुद्रितपुस्तके तु 'यी सर्वज्ञाः' इति पाठ एव ।
२ जैनानां चतुर्विशतितीर्थकरमध्ये प्रथमस्तीर्थकरः। ३ तेषामेवान्तिमः । यश्च 'महावीरः' इत्यभिख्यामपि लभते ।
४ 'दिगम्बरः' जैनानां सम्प्रदायविशेषोऽस्ति । यद्यपि चतुर्वि. शतिरेव तीर्थकराः श्वेताम्बरादिभिरपि मन्यन्ते तथापि 'प्रन्थकर्तृस.