________________
तृतीयपरिच्छेदः १२५ यं न दुष्टमपि वक्तुंर्दोषाददुष्टम् । तस्माद्विपरीतान्वयोऽपि वक्तरपराधान्न वस्तुतः । परार्थानुमाने च वक्तुरपि दोषश्चिन्त्यते ।
इति साधर्म्यण । इति साधर्येण नवे दृष्टान्तदोषा उक्ताः ।
वैधयेणापि न दृष्टान्तदोषान्वक्तुमाहवैधयेणापि परमाणुवत्कर्मवदाकाशवदिति साध्या
द्यव्यतिरेकिणः । नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे परमाणुवद्वैधयंदृष्टान्तः । साध्याव्यतिरेकी नित्यत्वात्परमाणूनाम् । कर्म साधना. व्यतिरेकि । अमूर्तत्वात्कर्मणः । आकाशमुभयाव्यतिरेकि । नि. त्यत्वादमूर्तत्वाच । साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि तेषामव्यतिरेको वृत्यभावः स येषामस्ति ते साध्यायव्यतिरेकिणः । ते चोदाहृताः । अपरानुदाहर्तुमाह
तथा संदिग्धसाध्यव्यतिरेकादयः । तथेति । साध्यस्य व्यतिरेकः साध्यव्यतिरेकः संदिग्धः साध्यव्यतिरेको यस्मिन्स संदिग्धसाध्यव्यतिरेकः स आदिर्येषां ते तथोक्ताः ।
१ वक्तुर्दोषात् , क वक्तु दोषात् , ख० वक्तुदोषात् । २ नव दृष्टान्त०, ख० तदृष्टान्तः। ३ मुद्रित पुस्तके 'द्वैधयण' । ४ पदमिदं ख० पुस्तके नोपलभ्यते । ५ वक्तुमाह, ख० वक्तुकाम आह । ६ परमाणुवत् , ख० परमाणु०। ७ घृत्यभावः,ख. निवृत्ताभावः (अशुद्धः)