________________
न्यायविन्दुः भवत्येवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्माद्यत्कृतकं तदनित्यमिति । कृतकत्वमनित्यत्वनियतमभिधाय नियमसाधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन त्वन्वयवाक्यमनुत्त्वैव दृष्टान्त उपात्तः । ईदृशश्च साधर्म्यमात्रेणैवोपयोगी । नच साधर्म्यात्साध्यासिद्धिः । अतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधार्थचोपा. तो निरुपयोग इति वक्तृदोषादयं दृष्टान्तदोषः। वक्त्रा ह्यत्र परः प्रतिपादयितव्यः । ततो यदि नाम न दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शितमिति दुष्टमेव ।
तथा विपरीतान्वयः । तथा विपरीताऽन्वयो यस्मिन्टष्टान्ते स तथोक्तः । तमेवोदाहरति
यदनित्यं तत्कृतकम् । यदनित्यं तत्कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् । एवं कृतकत्वादनित्यत्वगतिः स्यात् । अत्र त्वनित्यत्वं कृतकत्वे नियतं दर्शितम् । कृतकत्वं त्वनियतमेवानित्यत्वे । ततो यादृशमिह कृतकत्वमनियतमनित्यत्वे प्रदर्शितं तादृशानास्त्यनित्यत्वप्रतीतिः । तथा हि । य. दनित्यमित्यनित्यत्वमनूद्य तत्कृतकमिति कृतकत्वं विहितम् ।
अतोऽनित्यत्वं नियतमुक्तं कृतकत्वे न तु कृतकत्वमनित्यत्वे । ततो यथानित्यत्वादनियतात्प्रयत्नानन्तरीयकत्वेन प्रय. नानन्तरीयकत्वप्रतीतिस्तद्वत्कृतकत्वादनित्यत्वप्रतिपत्तिर्न स्यात् । अनित्यत्वेऽनियतत्वात्कृतकत्वस्य । यद्यपि च कृतकत्वं वस्तु. स्थित्यानित्यत्वे नियतं तथाप्यनियंत वादर्शितम् । अतस्तत्स्व
१ अनित्यत्व० ख० अनित्यत्वे । २ 'तथाप्यनियते' इति पाठः क० पुस्तके नोपलभ्यते ।