________________
१२३
तृतीयपरिच्छेदः असर्वज्ञोऽयं रागादिमत्वाद्रथ्यापुरुषवदिति ।। - असर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । रागादिमत्यादिति हेतुः । तदुभयमपि रथ्यापुरुषे दृष्टान्ते संदिग्धम् । असर्वज्ञत्वं रा. गादिमत्वं चेति ।
- अनन्वयोऽप्रदार्शतान्वयश्च ।
तथानन्वय इति । यस्मिन्दृष्टान्ते साध्यसाधनयोः संभवमात्रं दृश्यते न तु साध्येन व्याप्तो हेतुः सोऽनन्वयः । अप्रदर्शितान्वयश्च यस्मिन्दृष्टान्ते विद्यमानोऽप्यन्वयो न प्रदर्शितोवत्रा सो ऽप्रदर्शितान्वयः ।
अनन्वयमुदाहरति । यथा-यो वक्ता स रागादिमानिष्टपुरुषवत् ।
यथेति । यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादि. मत्त्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं प्रति नियमस्तेन व्याप्तिरुक्ता । इष्टपुरुषवदिति । इष्टग्रहणेन प्रतिवाद्यपि गृह्यते वाद्याप । तेन वक्तृत्वरागादिमत्त्वयोः सत्त्वमात्रमिष्टे पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति । __ अनित्यः शब्दः कृतकत्वाइटवदिति।
अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घटवदित्यत्रं दृष्टान्तेन प्रदर्शितोऽन्वयः । इह यद्यपि कृत. कत्वेन घटसदृशः शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शेक्योतिप्रसङ्गात् । यदि तु कृतकत्वमनित्यत्वस्वभावं विज्ञातं
१ रागादिमत्वं, क० रागादिमत्व । . २ गृह्यते, ख० संगृह्यते। ३ वाद्यपि, क० विद्यपि। ४ 'अत्र' इति पदं ख० पुस्तके नोपलभ्यते । ५ शक्यः, ख० शक्यते । ६ मनिस्यत्व०ख० अनित्य