________________
१२२
न्यायविन्दुः - दृष्टान्ताभासानुदाहरतियथा-नित्यः शब्दोऽमूर्तत्वात्।कर्मवत्परमाणुवढटवदिति। • यथेति । नित्यः शब्द इति । शब्दस्य नित्यत्वे साध्येऽमूतत्वादिति हेतुः । साधर्पण कर्मवत्परमाणुवद्धटवदित्येते दृष्टान्ता उपन्यस्ताः । __ एते च दृष्टान्तदोषाःसाध्यसाधनधर्मोभयविकलास्तथा संदिग्धसाध्य
धर्मादयश्च । साध्यं च साधनं चोभयं चेति तैर्विकलाः । साध्यविकलं कर्म तस्यानित्यत्वात् । साधनविकलः परमाणुमूर्तत्वात्परमाणू. नाम् । असर्वगतं द्रव्यपरिमाणं मूर्तिः । असर्वगताश्च द्रव्यरूपाश्च परमाणवः। नित्यास्तु वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः । घटस्तूभयविकलः । अनित्यत्वान्मूर्तत्वाच्च घटस्येति । तथा सं. दिग्धः साध्यधर्मो यस्मिन्स संदिग्धसाध्यधर्मः स आदिर्येषान्ते तथोक्ताः । संदिग्धसाध्यधर्मः। संदिग्धसाधनधर्मः । संदिग्धोभयः।
उदाहरणम्यथा-रागादिमानयं वचनाद्रथ्यापुरुषवत् ।
रागादिमानिति रागादिमत्त्वं साध्यम् । वचनादिनि हेतुः । रथ्यापुरुषवदिति दृष्टान्तः । रागदिमत्त्वं संदिग्धम् । मरणधर्मोऽयं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् ।
मरणं धर्मोऽस्येति मरणधर्मा तस्य भावो मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी। रागादिमत्त्वादिति हेतुः । रथ्यापुरुषे दृष्टान्ते संदिग्धं साधनं साध्यं तु निश्चितं मरणधर्मत्वामिति ।
१ शब्दस्य नित्यत्वे साध्ये, ख० नित्यत्वे साध्ये शब्दस्य ।