________________
तृतीयपरिच्छेदः
१२१
हेतोरन्वयो व्यतिरेको वा न शक्यो दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमाणस्य दर्शकः साधर्म्यदृष्टान्तः । प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभावप्रदर्शनाद्वैधर्म्य - दृष्टान्त उपादेय इति च दर्शितं भवति ।
अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति ।
अस्वार्थे दर्शिते दर्शित एव दृष्टान्तो भवति । योऽयमर्थो व्याप्तिसाधनप्रमाणप्रदर्शिनः कश्चिदुपादेयो निवृत्तिप्रदेर्शनश्चेत्यस्मिन्नर्थे प्रदर्शिते दर्शितो दृष्टान्त इत्याह
एतावन्मात्ररूपत्वात्तस्येति ।
·
एतावन्मात्रं रूपं यस्य तस्य भावस्तत्त्वं तस्मादिति । एताचदेव हि रूपं दृष्टान्तस्य । यदुत व्याप्तिसाधनप्रमाणदर्शनत्वं : नाम साधर्म्यदृष्टान्तस्य प्रसिद्धाप्तिकस्य वा साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमित्येतद्वैधर्म्यदृष्टान्तस्य । तच्च हेतुरूपा - ख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन ।
एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति । एतेनैव च हेतुरूपाख्यानादृष्टान्तत्वप्रदर्शनेन दृष्टान्तस्य दोषा दृष्टान्ताभासा कथिता भवन्ति । तथाहि । पूर्वोक्तसिद्धये उपादीयमानोऽपि दृष्टान्तो' न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं भवति ।
१ तो
न, ख० न तो ।
२ प्रदर्शन:, क० प्रदर्शिन, ख० दर्शकः । ३ प्रदर्शित, ख० दर्शिते ।
४ 'वैधर्म्यदृष्टान्तस्य तत्' इति पाठो ख० पुस्तके नोपलभ्यते । ५ दृष्टान्तस्य दोषाः, क० पुस्तकस्य 'दोषा' मलिनत्वेन न पठ्यते । ख० दृष्टान्तदोषा । ६ पदमिदं ख० पुस्तके नोपलभ्यते ।
७ उक्तं भवति, ख० इत्येतदुक्तं भवति ।
१६