________________
१२०
न्यायबिन्दुः प्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिर्दशनीया । तदवश्यं यथा घटे यथाकाशे चेति दर्शनीयम् । कस्मादेवमित्याह
न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । ___न हीति । यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे इति नियते । सपक्ष एव सत्त्वं विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकारः । तेने शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे सदसत्त्वे दर्शिते भवतः । न च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् ।
तत्कार्यतानियमः कार्यलिङ्गस्य स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः ।
तस्य साध्यस्य कार्य तत्कार्य धृमस्तस्य भावस्तत्कार्यता सैव नियमो यतस्तत्कार्यतया धूमो दाहेन नियतः सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथा दर्शयितुमशक्यः। स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिर्विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात्कार्यकारणभावस्तादाम्यं च महानसे घटे च ज्ञातव्यं तस्माद्याप्तिसाधनं प्रमाणं दर्शयता साधर्म्यदृष्टान्तो दर्शनीयः । वैधHदृष्टान्तस्तु प्रसिद्ध तत्कार्यत्वे कारणाभावे का भावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैधHदृष्टान्त इष्यते । तस्मादृष्टान्तव्यतिरेकेण
१ सदसत्वे, क० सदसत्त्वे २। २ साधर्म्य०, ख० साध्य० । ३ दृष्टान्यव्यतिरेकेण, ख० दृष्टान्तमन्तरेण ।