________________
तृतीयपरिच्छेदः भवति । स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तदिति साधनं तदेव तन्मानं साधनमात्रं तस्यानुबन्धोऽनुगमनं साधन- - मात्रभावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहतोः सपक्ष एव सत्त्वं विपक्षाच सर्वस्माद्यावृर्तिर्वाता भवति । तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यं नान्यथा ततो विशेषलक्षणमुक्तम् । किमतो यदि नामैवमित्याह
तच्च दर्शयता यत्र धूमस्तत्राग्निरसत्यग्नौ न कचिडूमो यथा महानसेतरयोः । ___ तत्र सामान्यलक्षणे दर्शयितुकामेन विशेषलक्षणं दर्शयतैवं दर्शनीयमिति संबन्धः । यत्र धूमस्तत्राग्निरिति कार्यहेतोाप्तिदर्शिता । व्याप्तिश्च कार्यकारणभावसाधनात्प्रमाणानिश्चीयते । ततो यथा महानस इति दर्शनीयम् । असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिनिति दर्शनीयः । वहिनिवृत्तिर्हि धूमनिती नियता दर्शनीया । सा च महानसादितरत्र दर्शनीया।
यत्र कृतकत्वं तत्रानित्यत्वमनित्यत्वाभावे कृतकत्वासंभवो यथा घटाकाशयोरिति दर्शनीयम् ।
यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभावहेतोयाप्तिदर्शिता। अनित्यत्वाभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः। त्र्याप्तेश्व साधकं प्रमाणं साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिदव्या.
१ तस्य, ख० साधनमात्रस्य । २ एवं, स्व० एवं च। ३ इतरत्र, कइतरत्रेति। ४ साधर्म्य० ख० साधम्र्य ।