________________
११०
न्यायबिन्दुः अत एवोक्तं नास्य लक्षणं पृथगुच्यत इति । न त्वेवमुक्त नास्य लक्षणमुच्यत इति । . यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह ।
गतार्थत्वात् । गतार्थत्वात् । गतोऽर्थः प्रयोजनमभिधेयं वा यस्य दृष्टान्तलक्षणस्य तत्तथा तस्य भावस्तत्त्वं तस्मात् । दृष्टान्तलक्षणं युच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्तलक्षणस्य यत्प्रयोजनं दृष्टान्तप्रतीतिस्तद्गतं निष्पन्नम. भिधेयं वा । गतं ज्ञानं दृष्टान्ताख्यम् ।
कथं गतार्थत्वमित्याह
हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभेदेन पुनर्विशेषेण कार्यस्वभावयोर्जन्म तन्मात्रानुबन्धौ दर्शनीयावुक्तौ ।
हेतो रूपमभेदेनोक्तं सामान्येन साधारणं कार्यस्वभावानुपलम्भानामतल्लक्षणमित्यर्थः । किं पुनस्तत्सपक्ष एव येत्सत्त्वं विपक्षाच सर्वस्मायावृत्तियों रूपद्वयमेतदभेदेनोक्तम् । न च सामान्यमुक्तमपि शक्यं ज्ञातुम् । अतस्तदेव विशेषनिष्ठं वक्तव्यम् । अतः पुनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ। कार्यस्य जन्म ज्ञातव्यमुक्तम् । जन्मनि हि विज्ञाते कार्यस्य सपक्ष एव सवं विपक्षाच सर्वस्माद्यात्तिर्माता
१ पदमिदं ख० पुस्तके नोपलभ्यते । २ पदमिदं ख० पुस्तके नोपलभ्यते । ३ पदमिदं क० पुस्तके नोपलभ्यते । ४ अभेदेनोक्तं, ख० उक्तमभेदेन । ५ 'यत्' इति पदं ख. पुस्तके नोपलभ्यते । ६ विशाते, स्व.शाते।