________________
तृतीयपरिच्छेदः
११७
सम्बन्धित्वात्सर्वगतत्वं दृश्यत्वादन्तरालानुपलम्भादसर्वगतत्वं । ततः शास्त्रकारेणैव विरुद्धव्याप्तत्वमपश्यता विरुद्धव्यासौ धर्मावक्त्वां विरुद्धाव्यभिचार्यवकाशो दत्त इति । न चे वस्तुन्यस्य संभवः । इत्युक्ता हेत्वाभासाः ।
ननु च साधनावयवत्वाद्यथा हेतव उक्तास्तत्प्रसङ्गेन हेत्वाभासास्तथा साधनावयवत्वा दृष्टान्ता वक्तव्यास्तत्प्रसङ्गेन च दृष्टाः न्ताभासास्तत्कथं नोक्ता इत्याह
त्रिरूपों हेतुरुक्तः ।
त्रिरूपोहेतुरुक्तस्तत्किं दृष्टान्तैः ।
स्यादेतत्तावता नार्थप्रतीतिरित्याह
तावतैवार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् ।
तावतैवेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः । अतः स एव गमकस्तद्वचनमेव साधनम् । न दृष्टान्तो नाम साधनस्यावयवः । यतश्चायं नावयवस्तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात्पृथगुच्यते । कथं तर्हि हेतोर्व्याप्तिनिश्चयो यद्यदृष्टान्तको हेतुरिति चेत् । नोच्यते हेतुरदृष्टान्तक एवापि तु न हेतोः तो नाम | हेत्वन्तर्भुत एव दृष्टान्तः ।
तेन नास्य लक्षणं पृथगुच्यते ।
१ उक्ता विरुद्ध ०, ख० उक्तौ । इह बिरुद्ध० । २ न च वस्तुन्यस्य, ० न वस्तुन्यस्य हेतोः । ३ 'उक्तः' इति पदं ख० पुस्तकं नोपलभ्यते । ४ तावतैवेति, क० तावता चेति ।
५ अतः, ख० ततः ।
६ तद्वचनं, ख० ततस्तद्वचनम् ।