SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः यत्वं विहितम् । ततो व्याप्यदृश्यानुपलब्धेर्व्यापकमसव्यवहार्यत्वं दर्शितम् । तद्यथेति । कचिदसन्घटो दृष्टान्तः । . पक्षधर्मत्वं दर्शयितुमाह नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्य व्यक्त्यन्तरालेष्विति । नोपलभ्यते चेति । व्यक्तेरन्तरालं व्यक्त्यन्तरं च व्यक्तिशून्यं चाकाशं दृश्यमपि कस्यांचियक्तौ गोसामान्यमश्वादिषु व्यक्तियन्तरेषु व्यक्तिशून्ये चाकाशे चोपलभ्यते । तस्मान तेष्वस्तीति गम्यते । अयमनुपलम्भप्रयोगः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः । अयमनुपलम्भः पूर्वोक्तश्च स्वभावः परस्परविरुद्धौ यावर्थों तयोः साधनात्तावेकस्मिन्धर्मिणि संशयं जनयतः । न ोकोऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । एकेन चात्र व्यक्तंयन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम् । अपरेण चानुपलम्भेनासत्त्वं साध्यते । न चैकस्यैकदैकत्र सत्त्वमसत्त्वं च युक्तं तयोविरोधात् । तदागमसिद्धस्य सामान्यस्य सर्वगतत्वाँसर्वगतत्वयोः साध्ययोरेतौ विरुद्धाव्यभिचारिणौ जाती । यतः सामान्यस्यैकस्य युगपत्स. देशारस्थितैरभिसंबन्धित्वं चाभ्युपगतं दृश्यत्वं च । ततः सर्व १ व्यक्ति शुन्ये, क० शून्ये। २ पदमिदं स्व० पुस्तके नोपलभ्यते । ३ तदागमसिद्धस्य, क० तदागममसि० ( अशुद्धः ) ख० तस्मा. दागमः। ४ सर्वगतत्वासर्वगतत्वयोः, ख० सर्वगतत्वयोः । ५ अभिसंबन्धित्वं, ख० अभिसंबद्धत्वं ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy