________________
तृतीयपरिच्छेदः
स्तत्संवन्धित्वानुबन्धिनी तदेशसंनिहितता सामान्यस्य । ननु च गवां संबन्धी स्वामी । न च तदेशे संनिहितस्वभावः स्वामी । तत्कथं संबन्धित्वात्तदेशत्वमित्याह -
११५
न हि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः ।
न हीति । यो यत्र देशे नास्ति स देशो यस्य स तदेशस्तं न व्याप्नोत्यात्मना स्वरूपेण । इह सामान्यस्य तद्वतां च समवायलक्षणः संबन्धः । स चाभिन्नदेशयोरेव । तेनं यत्र यत्सम - वेतं तत्तदात्मीयेन रूपेण क्रोडीकुर्वत्समवायिरूपदेशे स्वात्मानं निवेशयति । तद्देशरूपनिवेशनमेव तत्क्रौडीकरणम् । ततस्तत्समवायः । तस्माद्यद्यत्र समवेतं तत्तद्द्रव्यं व्याप्नुवदात्मना तदेशे संनिहितं भवति । तदयमर्थः । तदेशस्थवस्तु व्यापनं तद्देशस्रतया व्याप्तम् । तदेशसत्ताभावे तयापनाभावाद्व्यापनलक्षणः समवायसंबन्धों न स्यात् । अस्ति च व्यापनम् । अतस्तदेशे संनिहितत्वमिति । तदयं स्वभावहेतुः ।
पैठरप्रयोगं दर्शयन्नाह
द्वितीयोऽपि प्रयोगो यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न ततंत्रास्ति । तद्यथा क्वचिदविद्यमानो घटः । द्वितीयोऽपीति । यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः । एतेन दृश्यानुपलब्धिमनूद्य तत्र्त्तत्तत्रास्तीत्यसद्व्यवहा
१ समवायलक्षणः, क० समवायलक्षण० ।
२ तेन, ख० अनेन ।
३ तत्कोडी० ख० न क्रोडी० ।
४ तद्दशसन्ताभावे, ख० तद्देशसत्ताया अभावे ।
५ तत्तत्तत्र, क० ततत्तत्र ख तत्तत्र ।