SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः संबध्यते तत्सर्वगतं यथाकाशमभिसंबध्यते सर्वदेशावस्थितैः स्वसंम्बन्धिभियुगपत्सामान्यमिति । ___यत्सर्वस्मिन्देशेऽवस्थितैः स्वसंबन्धिभिर्युगपदभिसंबध्यते तत्सर्वदेशावस्थितैरभिसंबध्यमानत्वं सामान्यस्यानूध सर्वगत्वं विधीयते । तेन युगपदभिसंबध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते । इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेक चोक्तम् । युगपञ्च सर्वैः स्वैः स्वैः सम्बन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु ब्यक्तिरहितेषु च देशेषु सामान्य स्थितं साधयितुं प्रमाणमिदमुपन्यस्तम् । यथाकाशमिति । व्याप्तिपदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैर्वृक्षादिभिः स्वसंयोगिभियुगपदमिसंवध्यमानं सर्वगतं चाभिसम्बध्यते च सर्वदेशावास्थितैः स्वसंवन्धिभिरितिहेतोः पक्षधर्मत्वप्रदर्शनम् अस्य स्वभावहेतुत्वं प्रयोजयितुमाह - तत्संबन्धिस्वभावमात्रानुबन्धिनी तद्देशसंनिहितस्वभावता। तत्संबन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां संबन्धी सामान्यस्य स्वभावः स एव तत्संबन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनुबन्धिनी । कासावित्याह । तदेशसंनिहितस्वभावता । तेषां संबन्धिनां देशस्तदेशस्तद्देशे संनिहितः स्वभावो यस्य तत्तद्देशेसानहितस्वभावं तस्य भावस्तत्ता । यस्य हि येषां संबन्धी स्वभावस्तनियमेन तेषां देशे संनिहितं भवति । तत १ एकं, ख० एव । २ संबन्धिभिः, ख. स्वसम्यन्धिभिः । ३च, ख० वा।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy