________________
तृतीयपरिच्छेदः तत्तीनुमानेनागमसिद्धत्रैरूप्यं काधिकृतमित्याह । तदर्थे। ति । तस्यागमस्य योऽर्थोऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयी. कृतः सामान्यादिस्तस्य विचारेषु प्रक्रान्तेष्वागमाश्रयमनुमानं संभवति । तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणेति । कस्मात्पुनरागमाश्रयेऽप्यनुमाने संभव इत्याह ।
शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्य स्वभावोपसंहारसंभवात् ।
शास्त्रकता विपरीतस्य वस्तुविरुद्धस्य स्वभावस्योपसंहारो दौकनमर्थेषु तस्य संभवाविरुद्धाव्यभिचारिसंभवः । भ्रान्त्येति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः सन्तमसन्तं स्वभाव. मारोपयन्तीति । .
यदि शास्त्रकृतोऽपि भ्रान्ता अन्येष्वपि पुरुषेषु क आश्वास इत्याह
न द्यस्य संभवो यथावस्थितवस्तुस्थितिष्वात्मकार्येषूपलम्भेषु ।, __नहीति । न हेतुषु कल्पनया हेतुत्वव्यवस्थापि तु वस्तुस्थित्या । ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य संभवो नास्ति । अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथापस्थिता वस्तुस्थितिव्यवस्था येषां ते यथाव स्थितवस्तुस्थितयः। ने हि यथावस्तुस्थितं तथास्थिता न कल्पनयातस्तेषुः न प्रान्तेरवकाशोऽस्ति येन विरुद्धाव्यभिचारिसंभवः स्यात् । तत्र विरुद्धाव्यभिचारिण्युदाहरणम् -
तत्रोदाहरणं यत्सर्वदेशावस्थितैः स्वसम्बन्धिभिः १ पाठोऽयं क० पुस्तके नोपलभ्यते। २ क मागमाश्रयो।