________________
११२
न्यायबिन्दुः
कस्मादसंभव इत्याहन हि संभवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः । न चान्योऽव्यभिचारी |
नहीति । यस्मा संभवोऽस्ति विरुद्धतायाः । कार्य च स्वभावश्व तयोरुक्तलक्षणयोरिति । कार्यस्य कारणाज्जन्मलक्षणं तत्रम् | स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत्कार्य यथ स्वभावः स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेद्येन विरुद्धः स्यात् । अनुपलम्भस्य चोक्तलक्षणस्येति । दृश्यानुपलम्भत्वमनुपलम्भलक्षणम् । तस्यापि च स्वभावाव्य. भिचारित्वान्न विरुद्धत्वसंभवः स्यात् । एतेभ्योऽन्यो भविष्यतीत्याह । न चान्य एतेभ्योऽव्यभिचारी त्रिभ्योऽत एव तेष्वेव हेतुत्वम् ।
क तर्शाचार्यदिनागेनायं हेतुदोष उक्त इत्याह । तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदो
ष उक्तः ।
यस्माद्वस्तुबलप्रवृत्तेऽनुमाने न संभवति तस्मादागमाश्रयमनुमानमाश्रित्य विरुद्धाव्यभिचार्युक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्यागम आश्रयः ।
ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धमित्याह । अवस्तुदर्शनबलप्रवृत्तमिति । अवस्तुनो दर्शनं विकल्पमात्रं तस्य बलं सामर्थ्यम् । ततः प्रवृत्तमप्रमाणाद्विकल्पमात्राव्यवस्थितं - रूप्यमागमसिद्धमनुमानस्य । न तु प्रमाणात् ।
१ स्यात्, ख० स्यादेति तत् ।