________________
वृतीयपरिच्छेदः १११ एवमित्यनन्तरोक्तेन क्रमेणैषां मध्य एकैकं रूपं यदसिद्धं संदिग्धं वो भवति । दे द्वे कासिद्ध संदिग्धे वो भवतः । तदा. सिद्धश्च विरुद्धश्चानैकान्तिकच ते हेत्वाभासाः। यथायोगामिति । यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स तस्यासिद्धेः संदेहाच्च व्यवस्थाप्यत इति यस्य यस्य येन येन योगो यथायोगमिति ।)
विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः । . ननु चाचार्येण विरुद्धान्यभिचार्यपि संशयहेतुरुतः। हेत्वन्तरसाधितस्य विरुदं यत्तत्र व्यभिचरति स विरुदाव्य. भिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनादन्यभिचारी च स्वसाध्यान्यभिचाराविरुदाव्यभिचारी। सत्यमुक्त आचार्येण । मयात्विह नोक्तः । कस्मादित्याह
अनुमानविषयेऽसंभवात् ।। अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो पनुमानसद्भावः सोऽनुमानस्य विषयः। प्रमाणसिदाच त्रैरूप्या. दनुमानसद्भावस्तस्मात्तदेवानुमानविषयः तस्मिन्प्रक्रान्ते न विरुद्धाव्यभिचारिसंभवः । प्रमाणसिद्धो हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः संभवति यस्य प्रमाणसिदं रूपम् । न च विरुदाव्यभिचारिणः प्रमाणसिद्धमस्तिरूपम् । अतो न संभवः । सोऽसंभवो नोक्तः ।
१ पदमिदं ख. पुस्तके न विद्यते ।
२ पदमिदं ख० पुस्तके न विद्यते । . ३ पदमिदं क० पुस्तके नोपलभ्यते । “बिरुवं वद, दिक्वं ।