________________
न्यायबिन्दुः प्रमाणानुरोधादित्युभे संदिग्धे । ततस्तयोः प्राणादिमावस्य सदसत्त्वसंशयः।
. अत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः । .. यत एवं कचिदन्वयव्यतिरेकयोने भावनिश्चयो नाप्यभावनिश्चयस्तत एवान्वयव्यतिरेकयोः संदेहः । यदि तु कचिदप्यन्वयव्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसंदेह एव न स्यात् । यतश्च न कचिद्भावाभावनिश्चयस्तत एवान्वयव्यतिरेकयोः संदेहः । संदेहाचानैकान्तिकःकस्मादनैकान्तिक:
साध्येतरयोरतो निश्चयाभावात् । साध्यस्येतरस्य च विरुद्धस्यातः संदिग्धान्वयव्यतिरेकान्निश्चयाभावात् । सपक्षविपक्षयोहि सपदत्वसंदेहेन साध्यस्य न विरुद्धस्य सिद्धिः । न च सात्मकानात्मकाभ्यां च परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद्धर्मिणि जीवच्छरीरे संवायः । आत्मभावाभावयोरित्यनैकान्तिकः प्राणादिरिति ।
त्रयाणां रूपाणामसिद्धौ संदेहे च हेतुदोषानुपपायोपसंहरनाह___एवं त्रयाणां रूपाणामेकैकस्य द्वयोईयोर्वा रूपयोरसिद्धौ संदेहे च यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः।
सन
१ प्राणादि० क प्रमाणादि। २ ख. पुस्तके साध्यस्ये योर्हि' लिखित्वा पंक्तिरेका परित्यक्ता । ३.मिलिः ० असिद्धिः।