SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः कथमन्वयव्यतिरेकयो भावनिश्चय इत्याह एकाभावनिश्चयस्यापराभावनान्तरीयकत्वात्। एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः सोऽ परस्य द्वितीयस्य भावे निश्चयनान्तरीयको भवति । निश्चयस्याव्यभिचारी तस्य भावस्तत्त्वम् । तस्माद्यत एकाभावनिश्चयोऽपरभावनिश्चयेनान्तरीयकस्तस्मान द्वयोरेकसाभावनिश्चयः। कस्मात्पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाव्यभिचारीत्याह अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । अन्वषव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वादिति । अन्योन्यस्य व्यवच्छेदोऽभावः स एव रूपं ययोस्तयोर्भावस्तत्त्वं तस्मात्कारणात् । अन्वयव्यतिरेको भावाभावौ । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत्परिछिद्यते तत्तत्परिहारेण व्यवस्थितम् । स्वभावव्यवच्छेदेन च भावः परिच्छिद्यते । तस्मात्स्वाभावव्यवच्छेदेन भावो व्यवस्थितः। अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः। नीरूपतां च व्यवच्छिद्य रूपमाकारवत्परिछिद्यते। तथा च सत्यन्वयाभावो व्यतिरेको व्यतिरेकाभावश्चान्वयः। ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकामावे च निश्चितेऽन्वयो निश्चितो भवति । तस्माद्यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु तथापि न तयोः प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । एकवस्तुन्येकवस्तुनो युगपद्भावाभावविरोधात् । तयोरभावनिश्चयायोगाद । न च प्रतिवाद्यनुरोधात्सात्मकानात्मके वस्तुनी सदसती किंतु १'निश्चयन' इति पाठः क० पुस्तके नोपलभ्यते। २निश्चयायोगात, खनिश्चययोगात्।। .. .
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy