________________
१०८
न्यायबिन्दुः वस्तुधर्मो हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्रनियतस. दावो निश्चितः प्रकारान्तरानिवर्तेत । तत एवाह
सात्मकादनात्मकाच्च सर्वस्माद्यावृत्तत्वनासिद्धः ।
सात्मकादनात्मकाच सर्वस्माद्वस्तुनो व्यावृत्तत्वेनासिद्धेरि ति । प्राणादिस्तावत्कुतश्चिद्धटादेर्निवृत्त एव । ततः एतावदवसातुं शक्यं सात्मकादनात्मकाद्वा कियतो निवृत्तः । सर्वस्मात्तु नि. तो नावसीयते । ततो न कुतश्विद्यतिरेकः । यद्येवमन्वयोऽस्तु तयोनिश्चित इत्याइ
ताभ्यां न व्यतिरिच्यते न तत्रान्वेति । न तत्र सात्मकेऽनात्मके वार्थेऽन्वेत्यन्वयवान्प्राणादिः । कुत इत्याह
एकात्मन्यप्यसिद्धेः । एकात्मनि सात्मकेऽनात्मके वासिद्धेः कारणात् । वस्तुधर्मतया तयोर्द्वयोरेकत्र वा वर्तते इत्यवसितः प्राणादिने तु सा. त्मक एव निरात्मक एव वा वर्तत इति कुतोऽन्वयनिश्चयः ।
ननु न प्रतिवादिनो न किंचित्सात्मकमस्ति । ततोऽस्य हेतोर्न सात्मकेऽन्वयो न व्यतिरेक इत्यन्वयव्यातरेकयोरभावनिश्वयः । सात्मके न तु सद्भावसंशय इत्याह
नापि सात्मकान्निरात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः।
नापि सात्मकाद्वस्तुनस्तस्य प्राणादरन्वयव्यतिरेकयोरभावनिश्चयः । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या।