SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः १०७ कस्मादन्यराश्यभाव इत्याह । आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् । आत्मनो वृत्तिः सद्भावो व्यवच्छेदोऽभावस्ताभ्यां सर्वस्य वस्तुनः संग्रहात्कोडीकरणात् । यत्र सात्मास्ति तत्सात्मकम् । तदन्यनिरात्मकम् । ततो नान्यो राशिरस्ति संशयदलुत्व कारणम् । प्रकाराभ्यां सर्वसंग्रहं प्रतिपाद्य द्वितीयमाह । नाप्यनयोरेकत्र वृत्तिनिश्चयः । नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मकेऽनात्मके वा वृत्तेः सद्भावस्य निश्वयोsस्ति । द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिर्वस्तुधर्मत्वात् । ततश्चानयोरेव वर्तत इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्ययमर्थः । तदाह सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धिः । सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर्धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चितत्वात् । तदेवमसाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् । पक्षधर्मश्च भवन्सर्वः साधारणोऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयतितस्माज्जीवच्छरीरसम्बन्धी प्राणादिः । तस्मादित्यादिना जीवच्छरीरस्य सम्बन्धी पक्षधर्म इत्यर्थः । यस्मात्तयोरेकत्रापि न निवृत्तिनिश्चयस्तस्मात्ताभ्यां नव्यतिरिच्यते । १ भवन्सर्वः, क० भवत् सर्गः
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy