SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः स यस्यास्त तत्प्राणादिमजीवच्छरीरम् । तस्य भावस्तत्वम् । तस्मादित्येष हेतुः । अयमसाधारणः संशयहतुरुपपादायतव्यः । पक्षधर्मस्य द्वाम्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयो यावाकारौ ताभ्यां सर्पस्य वस्तुनः संग्रहात् । तयोश्च व्यापकयोराकारयोरेकत्रापि वृत्यनिश्चयायकाभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते । तयोराकारयोर्न संशयः । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नु. यादतो न संशयहेतुः स्यात् । द्वयोर्धमयोरनियतं भावं दर्शयन्सं. शयहेतुईयोस्त्वनियतमपि भावं दर्शयितुमशक्तोऽप्रतिपत्तिहेतुर्नियतं भावं दर्शयन्हेतुर्विरुद्धो वा स्यात्तस्माद्यकाभ्यां सर्व वस्तु सं. गृह्यते तयोः संशयहेतुर्यदि तयोरेकत्रापि सद्भावनिश्चयो न स्याद । सद्भावनिश्चये तु यद्येकत्र नियमसत्तानिश्चयो विरुद्धो हेतु. वा स्यात् । अनियतसत्तानिश्चये तु साधारणानकान्तिकः । संदिग्धविपक्षव्यावृत्तिका संदिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु वृत्यानश्चयादसाधारणानकान्तिको भवति । ततोऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्शयितुमाह न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति । यत्र प्राणादिवर्तते । न हीति । सहात्मना वर्तते सात्मकः । निष्क्रान्त आत्मा यस्मात्स निरात्मकः । ताभ्यां यस्मान्नान्यो राशिरस्ति । किं. भृतो यत्रायं वस्तुधर्मः प्राणादिर्वतते । तस्मादयं तयोर्भवति संशयहेतुः। १यकाभ्यां, क. याभ्यां। २ साधारणानकान्तिकः, क. साधारणानकान्तिक०। ३ च्यावृत्तिकः, क. व्यावृत्तिकः२।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy