________________
तृतीयपरिच्छेदः
१०५
ननूक्तमात्रमेव साध्यं तेनाविशेष इति । द्वयो रूपयारसिद्धौ विरुद्ध उक्तः । अनयोर्द्वयोर्मध्य एकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः । कीदृशोऽसावित्याह
यथा वीतरागः कश्चित्सर्वज्ञो वा वक्तृत्वादिति । व्यतिरेकोऽत्रासिद्धः । संदिग्धोऽन्वयः ।
यथेति । विगतो रागो यस्य स वीतराग इत्येकं साध्यम् । सर्वज्ञो वेति द्वितीयम् । वक्तृत्वादिति हेतुः । व्यतिरेकोऽत्रासि द्धः इति स्वात्मन्येव सरागे चासर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतोऽसिद्धो व्यतिरेकः ।
संदिग्धोऽन्वयः कुत इत्याह
सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्वं वा संदिग्धमनयोरेव द्वयो रूपयोः संदेहेऽनैकान्तिकः ।
सपक्षभूतयोः सर्वज्ञवीतराग योर्विप्रकर्षादित्यतीन्द्रियत्वाद्वचनादेरिन्द्रियगम्यस्यापि । तत्रातीन्द्रिययोः सर्वज्ञत्ववीतरागयोः सत्वमसत्त्वं वा संदिग्धम् । ततश्च न ज्ञायते किं वक्तृत्वात्सर्वझउतं नेत्यनैकान्तिक इति । .
--
संप्रति द्वयोरेव संदेहेऽनैकान्तिकं वक्तुमाह । अनयोरेवान्वयव्यतिरेकरूपयोः संदेहात्संशयहेतुः ।
उदाहरणम् -
सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।
सहात्मना वर्तते सात्मकमिति साध्यम् । शरीरमिति धर्मी । नीवगुणं धर्मिविशेषणम् । मृते ह्यात्मानं नेच्छति । प्राणा आश्वासादय आदिर्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः ।