________________
न्यायविन्दुः तु हेतुनिपर्ययव्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत्क्रमण वा भवति संहतः । तस्मात्प राथाश्चक्षुरादय इति संहतपरार्थी इति सिद्धम् ।
स इह कस्मान्नोक्तः । अयं च विरुद्ध आचादिग्नागेनोक्तः। स कस्माद्वार्तिककारेण सता त्वया नोक्तः। इतर आह
अनयोरेवान्तर्भावात् ।। अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ।
ननु चोक्तविपर्ययं न साधयात तत्कथमुक्तविपर्ययसाधनयोरेवान्तर्भाव इत्याह । न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ।
नद्ययमिति । हीति यस्मादर्थे । यस्मादयमिष्टविघातकृदा. भ्यां हेतुभ्यां साध्यविपर्ययसाधनत्वेन न भिद्यते । यथा तौ सा. ध्यविपर्ययसाधनौ तथायमप्युक्तविपर्ययं तु साधयतु वा मा वा किमुक्तविपर्यसाधनेन । तस्मादनयोरेवान्तभावः ।
ननु चोक्तमेव साध्ये तत्कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह -
नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति द्वयो रूपयोरेकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः । __ नहीति । यस्मादिष्टोक्तयोः परस्परस्य साध्यत्त्वेन न क. श्चिद्विशेषे भेद इति । तस्मादनयोरेवान्तर्भावः इत्युपसंहारः । प्रतिवादिनो हि यज्जिज्ञासितं तत्मकरणापन्नम् । यच्च प्रकर. 'णापन्नं तत्साधनेच्छया विषयीकृतम् साध्यामष्टमुक्तमनुक्तं वा।
१ परस्परस्थ, क० परस्परस्मात् ।