SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः १०३ यदि साध्यविपर्ययसाधनाद्विरुद्धावेतायुक्तं न परार्थानुमाने साध्यं न त्वमुक्तम् । इष्टं चानुक्तमतोऽन्य इष्टविघातकृदाभ्यामिति दर्शयन्नाह - ― तत्र च तृतीयोऽपीष्टविघात क्रुद्विरुद्धः । ननु च तृतीयोऽपि विरुद्ध उक्तः । उक्तविपर्यसाधनौ द्वौ तृतीयोऽयमिष्टस्य शब्देनानुपात्तस्य विधानं करोति विपर्यसाध नादिति । इष्टविद्यातकृत् । तमुदाहरति यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनाशनाद्यङ्गवदिति । यथेति । चक्षुरादय इति धमीं । परोऽर्थः प्रयोजनं संस्काउपकर्तव्यो येषां ते परार्था इति साध्यम् । संघातत्वात्संचितरूपस्वादिति हेतुः । चक्षुरादयो हि परमाणुसंचितरूपाः। ततः संघातरू॥ उच्यन्ते । शयनमासनं चादिर्यस्य तच्छयनासनादि । तदेवाङ्गं गुरुपोपभोगाङ्गत्वात् । अयं व्याप्तिप्रदर्शन विषयो दृष्टान्तः । अत्र हे पारार्थ्येन संहतत्वं व्याप्तम् । यतः शयनासनादयः संघात रूपाः पुरुषस्य योगिने भवन्त्युपकारका इति परार्था उच्यन्ते । कथमयमिष्टविघातकुदित्याह । E | तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः तदिष्टासंहतपारार्थ्यविपर्यसाधनादिति । असंहते विषये रामसंहतपारार्थ्यम् । तस्य सांख्यस्य वादिन इष्टमसंहतसिंहारार्थ्यं तस्य विपर्ययः । संहतपारार्थ्यं ना: तस्य साधनाद्विरुद्धः । आत्मास्तीति ब्रुवाणः सांख्यः । कुत तदिति पर्यनुयुक्तो बौद्धेनेदमात्मनः सिद्धये प्रमाणमाह । तपादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy