SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १०२ न्यायविन्दुः एवमेकैकरूपादिसिद्धिसंदेहे हेतुदोषानाख्याय द्वयोयोरूपयोरसिद्धिसंदेहे हेतुदोषान्वक्तुकाम आह । हयो रूपयोर्विपयर्यसिद्धौ विरुद्धः । द्वयो रूपयोविपर्ययसिद्धौ सत्यां विरुद्धः ।। त्रीणि च रूपाणि सन्ति ततो विशेषज्ञापनार्थमाह कयोईयोः सपक्षे सत्वस्यासपक्षे चासत्त्वस्य यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः । ___ कयोयोरिति । विशिष्टे रुपे दर्शयति । सपक्षे सत्त्वस्यासपक्षे चासत्त्वस्य विपर्ययसिद्धाविति सम्बन्धः । कृतकत्वमिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वमिति कार्यहेतोः । प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं जन्मज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुः । एतौ हेतू नित्यत्वे साध्ये विरुद्धौ हेत्वाभासौ। कस्मात्पुनरेतौ विरुद्धावित्याह__ अनयोः सपक्षेऽसत्त्वमसपक्षे च सत्त्वमिति विपर्ययसिद्धिः । अनयोरिति । सपक्षे नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् । अनित्ये पिपक्ष एव सत्त्वं निश्चितमिति विपर्ययासिद्धिः। कस्मात्पुनर्विपर्ययसिद्धावप्येतौ विरुद्धावित्याह__एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ । एतौ च साध्यस्य नित्यत्वस्य विपर्ययमनित्यत्वं साधयतः साव्यविपर्ययसाधनाविरुद्धौ ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy