________________
तृतीयपरिच्छेदः
१०१
न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः । रा गादीनां वचनादेश्व कार्यकारणभावासिद्धेः ।
न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धवि धिः । यद्यपि च सहावस्थानानुपलम्भस्तथापि न तयोर्विरोधो यस्मान्न सहानुपलम्भमात्राद्विरोधोऽपि तु द्वयोरुपलभ्यमानयोर्निवर्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविरोधिविरुद्धविधिः । अतोऽस्मान्नान्यस्याभावगतिस्तथा नवक्तृत्वाद्रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां का
स्याद्वचनादे रागादिगतिः स्याद्रागादिनिवृत्तौ वचनादिनिवृत्तिः स्यात् । न च कार्यम् । कुतः । रागादीनां वचनादेश्व कार्यकारणभावस्यासिद्धेः । कारणान्न कार्यमतोऽस्मान्न गतिः ।
माभूद्रागादिकार्यं वचनम् । सहचारि तु भवति । ततो रागोदौ सहचारिण निवृत्ते निवर्तते वचनमित्याशङ्कयाह
अर्थान्तरस्य वा कारणस्य निवृत्तौ न वचनादेर्निवृत्तिरिति संदिग्धव्यतिरेकोऽनैकान्तिको वचनादिः ।
अर्थान्तरस्य वा कारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिवि[चेति । इति शब्दस्तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात्सर्वज्ञत्वाद्रागादिमत्त्व विपर्ययादरागादिमत्वात्संदिग्धो व्यतिको वचनादेः । अतोऽनैकान्तिको वचनादिः ।
१ निवर्त्य० क० निर्वर्त्य ० ।
9
२ वचनादि०, ख० वचन० ।
३ 'तस्माद सर्वशत्वविपर्ययाद्विपक्षात्' आदि, ख० 'तस्मादसर्वस्वावीतरागत्वविपर्ययात् ( अशुद्धः ) तिपक्षात्सर्वज्ञत्वावीतरागामत्त्वात्संदिग्धः' आदि ।