________________
१००
न्यायबिन्दुः तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुप लब्धेरेव निषेधः । तथा च सति रूपे परिछिद्यमान एकस्मिस्त दभावो दृश्यो व्यवच्छिद्यते । ततः स्वप्रच्युतिवत्मच्युतिमन्तोऽपि व्यवच्छिन्ना इति ये परस्परपरिहारस्थितरूपाः सर्वे तेऽनेन निषिद्धैकत्वा इति सत्यपि चास्मिन्विरोधे सहावस्थानं स्याद पि । ततो भिन्नव्यापारौ विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेफत्वं वार्यते । अन्येन सहावस्थानं भिन्नप्रवृत्तिविषयौ च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये सहानवस्थानविरोधः । तस्माद्भिन्नव्यापारौ भिन्न विषयौ च । ततो नानयोरन्योन्यान्तर्भाव इति । स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न संभवति।
स चायं द्विविधोऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोने संभवति न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो नावसीयते । ततो नानेन विरोधगतिर्भवति । न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयोऽपि वक्तृत्वपरिहतास्तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनामपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद्वक्तृत्वविधानेन सर्वज्ञत्वनिषेधः । ___ स्यादेतत् । यदि नास्त्येव विरोधो घटपटयोरिव । स्यादपि तयोः सहावस्थितिदर्शनम् । अदर्शनात्तु विरोधगतिः । विरोधाचाभावगतिरित्याशंक्याह
१ 'प्रवृत्ति' इति पाठः ख० पुस्तके नोपलभ्यते । २ सहानवस्थान०, ख० सहावस्थानं । ३ द्विविधा, क. द्विरोधः। . ४ 'च' इति पदं ख० पुस्तके नोपलभ्यते ।