SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः परस्परपरिहारः परित्यागस्तेन स्थितं लक्षणं रूपं ययोस्तद्भावः परस्परपरिहारस्थितलक्षणता तया । इह यस्मिन्परिच्छि. • द्यमाने ययवच्छिद्यते तत्परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरव. च्छिद्यते तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्माद्वस्तुनो भावाभावौ परस्परपरिहारण स्थितरूपौ। नीलांतु यदन्यद्रूपं तन्नीलाभावाव्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमाने ऽनुपलम्भादभावनिश्चयात्। यथा च नीलमभावं परिहरति तद्वदभावाव्यभिचारि पीतादिकमपि । तथा च भावाभावयोः साक्षाद्विरों: धौ वस्तुनोस्त्वन्ये न्याभावाव्यभिचारित्वाद्विरोधः । कस्य चान्यत्राभावावसायो यो नियताकारोऽर्थस्तस्य । न त्वनियताकारोऽर्थः क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् । यतः क्षणिकत्वपरिहारेण न किंचिदृश्यते । यद्येवमभावोऽपि न नियताकारः । कथं न । नियताकारो नाम यावता वस्तुरूपविविक्ताकारः कल्पितोऽभावः । ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्रासदवसीयते नानियतम् । एवं नित्यत्वे पिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मकत्वविरोधश्चायम् । ययोहि परस्पर परिहारेणावस्थानं तयोरेकत्वाभावः । अतएव लाक्षणिकोऽयं विरोध उच्यते । लक्षणं रूपं वस्तूनां प्रयोजनमस्येति कृत्वा । वरोधेन ह्यनेन वस्तुतत्वे विभक्तं व्यवस्थाप्यते । अतएव श्यमाने रूपे यनिषिध्यते तदृश्यमेवाभ्युपगम्य निषिध्यते । था हि । अभावोऽपि पिशाचोऽपि यदा पीते निषेधुमिष्यते १ विरोधौ, ख० विरोधो। २ कः कस्य । ३ नित्यत्वे, ख० नित्यत्व । ४ परस्परपरिहारेण, ख. परस्परेण । ५ वस्तुतत्त्वं, क० स्तुतत्त्वं ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy