________________
न्यायविन्दुः मार्थः न क्षणयोर्विरोधः । अपि तु बहूनां क्षणानां । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति । संतानयोनिवर्त्यनिवर्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां प. रमाणूनां सत्यप्येकदेशावस्थानाभावेन विरोध इतरेतरसंतानानिवर्तनात्तेषां गतिधर्मा चालोको यो दिशमाक्रामति तदिग्वति. नो विरोधिसंतानान्निवर्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्र. भान्धकारनिकटवर्तिन्यपि नान्धकारं निवतयति । अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यात् । कारणासामर्थ्यहेतुकृतं संताननिष्ठमेव विरोधं दर्शयता भैवतेति कृतम् । भवतः प्रबन्धेन वर्तमानस्य शीतस्पर्शसंतानस्याभावोऽन्यस्योष्णस्पर्शसन्तानस्यामावे सतीति ।
ये त्वाहुन विरोधो वास्तव इति ते इदं वक्तव्याः । यथा न निष्पन्ने कार्ये कश्चिज्जन्यजनकभावो नाम दृष्टोऽस्ति । कार. णपूर्विका तु कार्यप्रवृत्तिरतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि कश्चिदिष्टो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य क्षणान्तरासापयमतो विरोधोऽपि वास्तव एव । उदाहणमाह ।
शीतोष्णस्पर्शवत् । शीतश्चोष्णश्च तावेव स्पर्शी तयोरिव । शीतोष्णस्पर्श योहि पूर्ववद्विरोधो योजनीयः ।
द्वितीयमपि विरोध दर्शयितुमाह । परस्परपरिहारस्थितलक्षणतया वा भाववत् ।
१ तदिग्वर्तिनः, क० तद्विवर्तिनः। २ अन्धकाराकान्तायां, क. अन्धकारायाक्रान्तायां । ३ हतुकृतं, ख० हेतुत्वकृतं । ४ भवता, काख० भवतः।