________________
तृतीयपरिच्छेदः
९७ कर एव । तथा हि । शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नशीतस्पर्शस्य निवर्तको विरुद्धः। तस्मादेतुवैकल्यकारी विरुद्धो जनक एव । निवर्त्यस्य सहानवस्थानविरोधश्चायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहर्तव्यम् । दूरस्थयोर्विरोधाभावाच निकटस्थयोरेव निवर्त्यनिवर्तकभावः । तस्माद्यो यस्य निवर्तकः स तं यदि परं तृतीये क्षणे निवर्तयति। प्रथमे क्षणे सन्निपतनसमर्थावस्थानयोग्यो भव। ति । द्वितीये विरुद्धमसमर्थ करोति । तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति । तत्रालोको गतिधर्मा क्रमेण जलतरंगन्यायेन देशमाक्रामन्यदान्धकारे निरन्तरमालोकक्षणं जनयति, तदालोकसमीपवर्तिनमन्धकारमसमर्थ जनयति । ततोऽसामर्थ्य तस्य यस्य समीपवालोकः । असामर्थ्ये निवृत्ते ताशो जायत आ. लोक इत्येवं क्रमेणालोकेनान्धकारोऽपनेयः । तथोष्णस्पर्शन शीतस्पर्शो निवर्तनीयः । यदा त्वालोकस्तत्रैवान्धकारे देशे जन्य. ते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकक्षण उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ उत्पन्नः । ततोऽसम
वस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनकस्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्र निवर्तते । ज. न्यजनकभावाच संतानयोर्विरोधो न क्षणयोः। यद्यपि च न संतानो नाम वस्तु तथापि संतानिनो वस्तुभूताः । ततोऽयं पर
१ आक्रामन् , ख० आक्रामयन् । २ असामर्थ्य, क० असमये, ख० असमर्थे ।
३ अन्धकारान्तरजननासमर्थः, क०अन्धकारान्तरासमर्थः, स्व० अन्धकारान्तराजनना समर्थः।
४ असमर्थावस्था०, ख० असामर्थ्यावस्था । ५ संतानयोः, क. संतनयोः ।।