SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः __यः सर्वत्र इति । साध्याभावरूपं सर्वज्ञत्वमनूध न स वक्ता भवतीति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्यामा वः साधनाभावे नियतत्वात्साधनाभावेन व्याप्त उक्त इति व्या. तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः। तस्मान्न सिध्यति । कुत इत्याह । संदेहात् । यतो विरोधाभावस्तस्मात्संदेहः । संदेहायतिरेकासिद्धिः। कथं विरोधाभावः। द्विविधो हि पदार्थानां विरोधः । हीति । यस्माविविध एव विरोधो नान्यः । तस्मान वक्तृत्वसर्वज्ञत्वयोर्विरोधः । कः पुनरसौ द्विविधो विरोध इत्याह । अविकलकारणस्य भवतोऽन्यभावे Aahe - अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावो न तस्य केन. चिदपि विरोधगतिः । तदर्थमविकलकारणग्रहणम् । ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुं तत्कुतो विरोधगतिः । एवं तर्हि । - अभावाद्विरोधगतिः। - अविकलकारणस्यापि यत्कृतात्कारणवैकल्यादभावः । तेन विरोधगतिः । तथा च सति यो यस्य विरुद्धः स तस्य किंचि१न स वक्ता, ख० स वक्तान। २ साधनाभावेन, ख. साधर्म्यभावेन । ३.सिध्यति, ख०सिध्यतीति। ४ हीति यस्मात् , ख० हिर्यस्मात् । -
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy