________________
तृतीयपरिच्छेदः र्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र पचनादेः सत्त्वमसत्वं वा संदिग्धम् । अतो न ज्ञायते वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनैकान्तिकं वक्तृत्वम् ।
ननु चे सर्वज्ञो वक्ता नोपलभ्यते तत्कथं वचनं सर्वथे संदिग्धम् । अत एव सर्वज्ञो वक्ता नोपलभ्यत इति ।
एवं प्रकारस्यानुपलभ्यस्यादृश्यात्मविषयत्वेन संदेहे हेतुत्वात् । ___ एवंप्रकारस्यैवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्याह । अदृश्यात्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् । ___ असर्वज्ञविपर्ययावक्तृत्वादेर्व्यावृत्तिः संदिग्धा । वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च ।
यतोऽदृश्यविषयोऽनुपलम्भः संशयहेतुर्न निश्चयहेतुस्ततोऽसर्वज्ञविपक्षात्सर्वज्ञाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा । नानुपलम्भात् । सवैज्ञे वक्तृत्वमसद्रुमोऽपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच कारणाव्यतिरेको न सिध्यतीति सम्बन्धः । व्याप्तिमन्तं व्यतिरेकं दर्शयति । ___ यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यति । संन्देहात् ।
१ पदमिदं स्व० पुस्तके नोपलभ्यते।। २एवंजातीयस्य, ख० एवंजातीयकस्य । ३ संशयहेतुः, स्व० संदेहेतुः (अशुद्धः) ४ सर्वशे, ख० संदिग्धे ।
५ मुद्रितपुस्तकस्य संम्पादकेन 'संदेहात' इति हेतुवाक्पं द्वि. विधमित्याग्रमवाक्ये निवद्धम् ।