________________
न्यायविन्दुः
अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वाद्विद्युदाकाशवंद्धटव चेत्यनि त्यत्वं सपक्षैकदेशवृत्ति विद्युदादावस्ति नाकाशादौ । विपक्षव्यापि प्रयत्नानन्तरीयके सर्वत्र भावात् । अनित्यत्वात्प्रयत्नानन्तरीयकः शब्दो घटवद्विद्युदा का शव च्चेत्यनित्यत्वं विपक्षैकदेशशब्दवृत्ति वि खुदादावस्ति नाकाशादौ । सपक्षव्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् । नित्यः शब्दोऽमृर्तत्वादाकाशपरमाणुवत्कर्मघटवञ्चेत्यमूर्तत्वमुभयैकदेशवृत्ति । उभयोरेकदेश आकाशे कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्तते । मृर्तत्वाद्वट परमाणु प्रभृतीनाम् । नित्यास्तु परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः । अस्य चतुर्विधस्य पक्षधर्मस्यासच्चमसिद्धं विपक्षे । ततोऽनैकान्तिकता । यथा चास्य रूपस्यासिद्धावनैकान्तिकस्तथास्यैव विपक्षेऽसच्चाख्यस्य रूपस्य संदेहेऽनैकान्तिकः । :
I
1
तमुदाहरति
९४.
www.
यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वेति साध्ये वक्तृत्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः । सर्वत्रैकदेशे वा सर्वज्ञो वक्ता नोपलभ्यते इति ।
यथेति । सर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । कश्चिद्विविक्षित इति वक्तुरभिप्रेतः पुरुषो धर्मी । राग आदियर्स्य द्वेषादेः स रागादिः स यस्यास्ति स रागादिमानिति द्वितीयं साध्यम् । वाग्रहणं रागादिमत्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमवे वा साध्ये प्रकृते वक्तृत्वं वचनशक्तिस्तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽनैकान्तिकः । संदिग्धा विपक्षाच्यावृत्ति
१ क० विद्युदाकाशघटवत् ।
२ लेखकस्य प्रमादेन ख० पुस्तके 'नाकाशादौ' द्वयमध्यस्थः पाठः परित्यक्तः । ३ संदिग्धा, ख० संदिग्ध० ।