SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः नित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च द्वयमपि सांख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पाद उत्पनिमखम् । सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् । ताशं च द्वयमपि सांख्यस्यासिद्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाज्ञानाद्वादिः नोऽसिद्धम् । यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रमाणं वादिनो ज्ञातं स्यात् । वादिनोपि सिद्धं स्यात् । ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् । संदिग्धासिद्धं दर्शयितुमाह तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः । स्वयमिति । हेतोरात्मनः संदेहेऽसिद्धः । तदाश्रयणस्य चेति । तस्य हेतोराश्रयणमाश्रीयतेऽस्मिन्हेतुरित्याश्रयणं हेतोव्यतिरिक्त आश्रयभूतः साध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते । तस्याश्रयणस्य संदेहे संदिग्धः।। स्वात्मना संदिह्यमानमुदाहर्तुमाह___ यथा वाष्पादिभावेन संदिह्यमानो भूतसंघातोऽ निसिद्धावुपदिश्यमानः संदिग्धासिद्धः । यथेति । बाष्प आदिर्यस्य स बाष्पादिस्तद्भावेन वाष्पादिवेन संदिह्यमानो भूतसंघात इति । भूतानां पृथिव्यादीनां संघातः समूहः। अग्निसिद्धावग्निसिद्धयर्थमुपादीयमानोऽसिद्धः। तदुक्तं भवति । यदा धूमोऽपि वाष्पादित्वेन संदिग्धों विति । तदासिद्धो गमेकरूपानिश्चयाडूमतया निश्चितो वह्निन्यत्वाद्गमकः । यदा तु संदिग्धस्तदा न गमक इति । असिद्धख्यो दोषः। १ परार्थो हि, ख० परार्थादि । २ प्रमाणं, ख० प्रामाण्यं ।। । स्यात् , ख० स्यात्तदा । ४ क० वाष्पादिह्यमाना। ५ का गंक।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy