SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः ह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत्तथोक्तम् । तथाभूतस्य मरणस्यानेन बौद्धन प्रतिज्ञातत्वात् । यदि नामवं तथापि कथमसिद्धमित्याह । तस्य च विज्ञानादिनिरोधात्मकस्य तरुष्वसंभवात् । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत्स कथं विज्ञानं नेच्छेत् । तस्माद्विज्ञाना. निष्टेनिरोधोपि नेष्टस्तरुषु । ननु च शोषोऽपि मरणमुच्यते । स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञानसत्तया व्याप्त यन्मरणं तदिह हेतुर्विज्ञाननिरोधश्च । तत्सत्तैया व्याप्तो न शोषमात्रम् । ततो यन्मरणहेतुस्तत्तरुष्वसिद्धम् । यत्तु सिद्धं शोषात्मकं तदहेतुः । दिगम्बरस्तु साध्येन व्याप्तमव्याप्तं वा मरणमविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् । अज्ञानात्सिद्धं शोषरूपम् । शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनोप्यसिद्धं स्यादिति न्यायः । अचेतनाः सुखादय इति साध्य उत्पत्तिमत्त्वमनित्यं वा सांख्यस्य स्वयं वादिनोऽसिद्धम् । ___ अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते सुखादयः। तेषामचैतन्ये साध्य उत्पत्तिमत्त्वमनित्यत्वं वा लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तोऽनित्या वा तेन चेतना यथा रूपादयः । तथा चोत्पत्तिमन्तोऽनित्या वा सुखादयस्तस्मादचेतनाः। चैतन्यं तु पुरुषस्य स्वं रूपम् । अत्र चोत्पत्तिमत्त्वम १ असंभवात् , ख० अभावात् । २ विज्ञानसत्तया' । क०मुद्रितपुस्तके च 'विज्ञानसत्ताया। ३ सत्तया, क० मुद्रितपुस्तके च 'सत्ताया' ४ ततः क० तत्र। ५ हेतुभूतं, क० हेतुशात्ततं ( अशुद्धः)।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy