________________
८९
तृतीयपरिच्छेदः रूपस्यासिद्धौ संदेहे वो किंसंज्ञको हेत्वाभास इत्याह । एकस्य रूपस्यति । धर्मिणा सह सम्बन्धः धर्मिसंबन्धः । धर्मिणि सत्वं हेतोः । तस्यासिद्धौ संदेहे वाऽसिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुर्न साध्यस्य न विरुद्धस्य न संशयस्य हेतुरपि त्वप्रतिपत्तिहेतुर्न कस्यचिदतः प्रतिपत्ति. रिति कृत्वा । अयं चार्थोऽसिद्धसंज्ञाकरणादव प्रतिपत्तव्यः ।
उदाहरणमाह--
यथा-अनित्यः शब्द इति साध्ये चाक्षुषत्वमुभयासिद्धम् ।
यथेत्यादि। अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साध्ये चाक्षुषत्वं चक्षुधित्वं शब्दे द्वयोरपि वादिप्रतिवादिनोरसिद्धम् ।
चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धं विज्ञानन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्तस्य च तरुष्वसंभवात् ।
चेतनास्तरव इति तरूणां चैतन्ये साध्ये सर्वा त्वक्सर्वत्वक् । तस्या अपहरणे सति मरणं दिगम्बरैरुपन्यस्तम् । प्रतिवादिनो बौद्धस्यासिद्धम् । कस्मादसिद्धमित्याह । विज्ञानं चेन्द्रियं चायुहै । रूपादिविज्ञानोत्पत्या यदनुमितं कायान्तर्भूतं चक्षुर्गोलकादेस्थितरूपं तदिन्द्रियम् । आयुरिति लोके प्राणा उच्यन्ते । न वागमसिद्धमिह युज्यते वक्तुम् । अतः प्रमाणस्वभावमायुरि१वा किं०, क. वाक्यं ।। २ अनित्यः, ख० निस्यः।। ३ख०द्वयोद्धयोरपि । ४ चायुश्च, ख० चायुश्च तत्रविज्ञान (अशुद्धः) चक्षुरादि यित ( अशुद्धः)। ५ख कार्यान्तभूतं । . . ६ ख० उच्यते । ७ आयुरिह । तेषां, स्व० आयुः । इह तेषां ।