________________
न्यायविन्दुः इतिशब्द एवमर्थे । एवं पक्षलक्षणमनवद्यामति । अविद्यमानमवचं दोषो यस्य तदनवद्यम् । दर्शितं कथितम् । - त्रिरूपलिङ्गाख्यानं परिसमापय्य प्रसङ्गागतं च पक्षलक्ष. णमभिधाय हेत्वाभासान्वतुकामस्तेषां प्रस्तावं रचयति । त्रिरूपेत्यादिना ।
त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् ।
एतदुक्तं भवति । त्रिरूपलिङ्गाख्यानं वक्तुकामेन स्फुटं तद्वक्तव्यम् । एवं च तत्स्फुटमुक्तं भवति । यदितच तत्प्रतिरूपक बोध्यते । हेयज्ञाने हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थानुमानमिति प्रागुक्तम् ।
तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभास उक्तावप्यसिद्धौ संदेहे वा प्रतिपाद्यप्रतिपादकयोरेकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे चासिद्धो हेत्वाभासः। ____तत्रेति । तस्मिन्सति त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः। त्रयाणां रूपाणां मध्य एकस्याप्यनुक्तौ। अपिशब्दाहयोरपि । साधनस्याभासः सदृशं साधनस्य न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः । न केवलमनुक्तावुक्तावप्यसिद्धौ संदेहे वा कस्येत्याह । प्रतिपाद्यस्य प्रतिवा. दिनः प्रतिपादकस्य च वादिनो हेत्वाभासः । अथ कस्य
१ एतद्, तद् । २ प्रतिरूपकं, ख० प्रतिरूपम् । ३ का विवक्तम्। ४ कस्य, ख. कस्यैकस्य ।