________________
तृतीयपरिच्छेदः एवं च सत्यनिराकृतग्रहणेनानन्तरोक्ताश्चत्वारः पक्षव. दाभासन्त इति पक्षाभासा निरस्ता भवन्ति ।
संपति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यबच्छेदेन यादृशः पक्षार्थी लभ्यते तं दर्शयितुं व्यवच्छेद्यान्संक्षिप्यदर्शयति ।
. सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य स्वयं वादिना तदा साधयितुमनिष्टस्योक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यस्तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवा दर्शितं भवति । ___एवमित्यनन्तरोतक्रमेण सिद्धस्य विपर्ययेण विपरीतत्वेन हेतुना साध्यो द्रष्टव्यः । यस्मादात्सिद्धोऽर्थो विपरीतः स साध्य इत्यर्थः । सिद्धश्च विपरीतोऽसिद्धस्य । तस्मादसिद्धः साध्यः । असिद्धोऽपि न सर्वोऽपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्यण स्वयं वादिना साधयितुमनिष्टस्यासिद्धस्य विपर्ययेण । थोक्तमात्रस्यासिद्धस्यापि विपर्ययेण तथा निराकृतस्यासिद. यापि विपर्ययेण साध्यः । यश्चायं पञ्चभिर्व्यवच्छेद्यै रहितोर्थोऽसिद्धोऽसार्धनम् । वादिनः स्वयं साधयितुमिष्ट उक्तोनुक्तो
प्रमाणैरनिराकृतः साध्यः । स एवासौ स्वरूपेणैव स्वयमिष्टो नेराकृत एतैः पदैरुक्त इत्यर्थः । यश्चायं साध्यः स पक्ष उच्यते ।
१'च' इति पाठः ख० पुस्तक एव विद्यते । २ मुद्रितपुस्तकस्य 'अवा' इति पाठोऽस्माकं सम्मतावशुद्धोत। ३ अनन्तरोक्तक्रमेण, ख० अनन्तरोक्तेन क्रमेण । ४ असाधनं, क० असाधनं २। ५ वा, क० वा ४। ६ निराकृतः, निराकृतः ५।