SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ८६ न्यायबिन्दुः मनुमानं प्रमाणं शान्दं दर्शितं भवति । तस्मान्नानुमानं प्रमाणमिति ब्रुवता शाब्दस्य प्रत्ययस्यासन्यायं उक्तोऽसदर्थत्वमेव ह्यप्रामाण्यमुच्यते । नान्यत् । शब्दोच्चारणसामर्थ्याच्चार्थाविनाभावी स्वशब्दो दर्शितः । तथा च सन्नर्थो दर्शितः । ततः कल्पितादर्थकार्याच्छब्दाच्छाब्दप्रत्ययार्थस्यानुमितं सत्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति । तदेवं स्ववचनानुमितेन सत्वेनासत्त्वं वाच्यमानं स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः । अन्ये त्वाहुः । अभिप्रायकार्याच्छद्वाज्जातं ज्ञानमभिप्रायालम्बनं सदर्थमिच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति । तदयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वं स्ववचनस्य च कार्यहेतुत्वं काल्पतमिष्टम् । न वास्तवम् । अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । ततस्तदिह न गृह्यते । किं च यथानुमानमनिच्छन्वन्धव्यभिचारित्वं धूमस्य न प्रत्येति । तथा शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति । बाद्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन्न शब्दस्याभिप्रायाविनाभवित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । अपि च न स्वाभिप्रायनिवेदनाय शब्द उर्चायते । अपि तु बाद्यवस्तुसत्त्वप्रतिपादना. य । तस्माद्धाद्यवस्तुविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयो. गः । ततः पूर्वकमेव व्याख्यानमनवद्यम् - इति चत्वारः पक्षाभासा निराकृता भवन्ति । १ शाब्दस्य, ख० शब्दस्य ।। २ख० असन्तों ग्राह्य, क० असन् ग्राह्य । ३ शाब्दप्रत्ययार्थस्य, क० शब्दप्रत्ययार्थस्य । ४ ख. पुस्तके 'अपि च' इत्यस्मादारभ्य 'शब्दप्रयोगः' इत्ये। तावत्पर्यन्तं द्वे पंक्ती परित्यक्ते। संभवतः लेखकस्य दृष्टिः प्र. थमं 'शब्दप्रयेगः' इति पदं दृष्ट्वा भ्रमेण द्वितीयस्य 'शब्दप्रयोगः' इ. त्यस्योपरि पतिता। ५ शब्दः, क० टब्दः ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy