________________
तृतीयपरिच्छेदः
पन्धिनी सांकेतिकशब्दवाच्यता ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधकं द्रष्टव्यम्- ..
स्ववचननिराकृतो यथा-नानुमानं प्रमाणम् । स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दस्तेन निराकृ. तः । प्रतिज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणम् । अत्रानुमानस्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स नानुमानं प्रमाणमित्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं होतत्प्रयुज्यमानं वक्तुः शाब्दस्य प्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथाहि । मद्वाक्यायो. ऽर्थसंपत्ययस्तवोत्पद्यते सोऽसत्यार्थ इति दर्शयन्वाक्यमेव नो. चारयेद्वक्ता । वचनार्थश्चेदसत्यः परेण ज्ञातव्यो वचनमपार्थकम् । पोऽपि हि सर्व मिथ्या ब्रवीमीति वक्ति सोऽप्यस्य वाक्यस्य प्रत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । तद्येतद्वाक्यं सत्यार्थदार्शतम् । एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि दार्शनि भवन्ति____एतदेव तु यद्यसत्यार्थमन्यान्यसत्यानि न इर्शितानि भवन्ति ।
ततश्च न किंचिदुच्चारणस्य फलमिति मोचारयेत् । तस्मा. क्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थ दर्शयन्नेन वक्ता क्यमुच्चारयति । तां च सति बाद्यवस्तुनान्तरीयकं शब्दं यता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् । ततो बाह्याकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयेता कार्यलिङ्गज१ ब्रवीमीति वक्ति, ख० ब्रवीति वक्ति । २ 'तद्येतद्' इति पाठः क० पुस्तक एव विद्यते । भन्यत्र सर्वत्र घेतद' इति पाठः एव । ३ क. असत्यानि । ४ सथा, क० यथा। ५ आदर्शयता, क. आदर्शयिता।