________________
८४
न्यायविन्दुः प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं चैतैर्निराक्रियते विपरीतः साध्यते न स पक्ष इति
तत्र प्रत्यक्षनिराकतोयथा-अश्रावण शब्द इति। तत्रेति । तेषु चतुर्पु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः । यथेति । यथायं प्रत्यक्षनिराकृतस्तथान्येऽपि द्रष्टव्या इति यथाशब्दार्थः । श्रवणेन ग्राह्यः श्रावणः । न श्रावणोऽश्रावणः श्रोत्रेण च ग्राह्य इति प्रतिज्ञार्थः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धन श्रोत्रग्रायलेन बाध्यते
अनुमाननिराकृतो यथा-नित्यः शब्द इति ।
अनुमाननिराकृतः । नित्यः शब्द इति शब्दस्य प्रतिज्ञातं नित्यत्वमनित्यत्वेनानुमानसिद्धन निराक्रियते
प्रतीतिनिराकृतो यथा-अचन्द्रः शशीति । प्रतीत्या निराकृतः । अचन्द्र इति । चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः । प्रतीतोऽर्थ उच्यते । विकल्पविज्ञानाविषयः प्रतीतिः । प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते । तेन विकल्पविज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव । तथा हि । यद्विकल्पज्ञानग्रायं तच्छन्दाकारसंसर्गयोग्यम् । तत्सांके तिकेन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञा. नविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकं द्रष्टव्यम् । स्वभावहेतुश्च प्रतीतिः । यस्माद्विकल्पविषयत्वमात्रानु.
१ न स पक्षा, ख० स न पक्षः। २ 'प्रत्यक्ष' इति पाठः ख० पुस्तके नोपलभ्यते । ३ विकल्पविज्ञानविषयत्वेन, का विकल्पविज्ञानेन । ४०विकल्पज्ञानप्राचं, क० सानग्राह्य ।