SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः क्षुरादय इत्यात्मार्थता नोक्ता । अनुक्ताप्यात्मार्थता साध्या । तथा हि । सांख्येनोक्तमस्त्यात्मा । तद्विरुद्धं बौद्धेनोक्तं ना. स्त्यात्मेति । ततः सांख्येन स्ववादविरुद्धं बौद्धवादं हेतूकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुप. न्यस्यम् । अतोऽनुक्ताप्यात्मार्थता साध्या तदाधिकरणत्वाद्विबादस्य । शयनासनादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थत्वनान्वयो न प्रसिद्धः संघातत्वस्य । परार्थमात्रेण तु सिद्धः । ततः परार्था इत्युक्तम् । चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि परार्थ साधयितुमिष्टम् । विज्ञानाच्च पर आत्मैव स्यात् । परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यादात्मार्थत्व सिध्यति चक्षुरादीना. मिति मत्वा परार्थग्रहणं कृतम् । तेनेष्टसाध्यवचनेन नोक्तमात्रमपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः साधयितुमिष्टमुक्तमनुक्तं वा प्रकरणगम्यं साध्यमित्युक्तं भवति-- अनिराकृत इति । एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते न स पक्ष इति प्रदर्शनार्थम् । ____ अनिरोकृत इति व्याख्येयम् । एतदित्यनन्तरप्रकान्तं य. त्पक्षलक्षणमुक्तं साध्यत्वेनेष्टेत्यादि । एल्लक्षणेन योगेऽप्यों न पक्ष इति प्रदर्शनार्थ प्रदर्शनायानिराकृतग्रहणं कृतम् । कीदृशोऽर्थो न पक्षः साधयितुमिष्टोऽपीत्याह । यः साधयितुमिष्टोऽर्थः १'अनुक्ता' इति पाठः ख० पुस्तके न विद्यते । २ शयनासनादिषु, क० शयनादिषु । ३क० आत्माथत्वन प्रसिद्धः। ४ 'परस्य' इति पदं स्व० पुस्तके नोपलभ्यते । ५ अनिराकृतः, क. अनिकृतः। ६ प्रदर्शनाय, ख० प्रतिपादनाय ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy