________________
न्यायविन्दुः । इष्ट इति । इष्टशब्दसुपक्षिप्य व्याचष्टे । यत्रार्थ आत्मनि विरुद्धो वादः प्रक्रान्तो नास्त्यात्मत्यात्मप्रतिषेधवाद आत्मसशावादविरुद्धो विधिप्रतिषेधयोर्विरोधात् । तेन विवादन हेतुना साधनमुपन्यस्तम् । तस्यात्मार्थस्य सिद्धिं निश्चयामिच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवतीष्टशब्देन । यत्तदित्युक्तं भवतीतिग्रहणमन्ते तदिहापेक्ष्य वाक्यं परिसमापयितव्यम् । यद्यपि परार्थानुमान उक्त एव साध्यो युक्तोऽनुक्तोऽपि तु वचनेन साध्यः सामोक्ततत्वात्तस्य । कुत एतदित्याह । तदित्यादि । तदिति । सोऽधिकरणमाश्रयो यस्य स तदधिकरणो विवादस्तस्य भावस्तत्वं तस्मादित्येतदुक्तं भवति । यस्माद्विवादं नि. राकर्तुमिच्छता वादिना साधनमुपन्यस्तं तस्मावदधिकरणं वि. वादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुपन्यस्तम् । तच्चेन साध्यं किमिदानी जगति नियतं किंचित्साध्यं स्यादिति । अनुक्तमपि परार्थानुमाने साध्यमिष्टं तदुदाहरति
यथा पराश्चिक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थता. नेनोक्तमात्रमेव साध्यमित्युक्तं भवति । ___परार्था इति । चक्षुरादियेषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी । परस्मायिमे परार्था इति साध्यम् परार्यम् । संघातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं शयनासनाद्यङ्गवदिति । शयनमासनं च ते आदी यस्य तच्छ्यनासनादि पुरुषोपभोगाङ्ग संघातरूपम् । तद्वदत्र । यत्प्रमाणे यदप्यात्मार्थाश्च
१ 'तत्' इति पदं ख० पुस्तके न दृश्यते । २ 'ते' इति पदं ख० पुस्तक नोपलभ्यते ।